|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.236. अध्यायः 236
Mahabharata - Adi Parva - Chapter Topics
सौभद्रतीर्थे स्नानार्थमवतीर्णस्यार्जुनस्य ग्राहेण ग्रहणम्॥ 1 ॥
जलादुद्धरणेन ग्राहरूपं परित्यज्य नारीरूपं प्राप्तया वर्गानाम्नया स्वप्रभृतीनां ब्राह्मणेन शापदानकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-236-0x(1274)(10207)
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः।
अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः॥ 1-236-1(10208)
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः।
अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः॥ 1-236-2(10209)
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्।
कारन्धमं प्रसन्नं च महमेधफलं च तत्॥ 1-236-3(10210)
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत्।
एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः॥ 1-236-4(10211)
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः।
दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः॥ 1-236-5(10212)
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः।
तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः॥ 1-236-6(10213)
तापसा ऊचुः। 1-236-7x(1275)
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्।
तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन॥ 1-236-7(10214)
वैशम्पायन उवाच। 1-236-8x(1276)
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः।
जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः॥ 1-236-8(10215)
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्।
विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः॥ 1-236-9(10216)
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्।
जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम्॥ 1-236-10(10217)
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्।
उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः॥ 1-236-11(10218)
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना।
बभूव नारी कल्याणी सर्वाभरणभूषइता॥ 1-236-12(10219)
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा।
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः॥ 1-236-13(10220)
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्।
का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी॥ 1-236-14(10221)
किमर्थं च महत्पापमिदं कृतवती पुरा। 1-236-15(10222)
वर्गोवाच।
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी॥ 1-236-15x(1277)
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल।
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः॥ 1-236-16(10223)
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम्।
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्॥ 1-236-17(10224)
रूपवन्तमधीयानमेकमेकान्तचारिणम्।
तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम्॥ 1-236-18(10225)
आदित्य इव तं देशं इत्वं सर्व व्यकाशयत्।
तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम्॥ 1-236-19(10226)
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया।
अहं च सौरभेयी च समीची बुद्बुदा लता॥ 1-236-20(10227)
यौगपद्येन तं विप्रमभ्यगच्छाम भारत।
गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं॥ 1-236-21(10228)
स च नास्मासु कृतवान्मनो वीर कथंचन।
नाकम्पत महातेजाः स्थितस्तपसि निर्मले॥ 1-236-22(10229)
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ।
ग्राहभूता जले यूयं चरिष्यथ शतं समाः॥ ॥ 1-236-23(10230)
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः॥ 236 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-236-5 धर्मबुद्धिभिर्दुर्मरणज दोषं तीर्थेनाप्यविनाश्यं पश्यद्भिः॥ 1-236-15 चर्चोवाच इति घ पाठः॥ षट्त्रिंशदधिकद्विशततमोऽध्यायः॥ 236 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|